इ॒मे दि॒वो अनि॑मिषा पृथि॒व्याश्चि॑कि॒त्वांसो॑ अचे॒तसं॑ नयन्ति। प्र॒व्रा॒जे चि॑न्न॒द्यो॑ गा॒धम॑स्ति पा॒रं नो॑ अ॒स्य वि॑ष्पि॒तस्य॑ पर्षन् ॥७॥
ime divo animiṣā pṛthivyāś cikitvāṁso acetasaṁ nayanti | pravrāje cin nadyo gādham asti pāraṁ no asya viṣpitasya parṣan ||
इ॒मे। दि॒वः। अनि॑ऽमिषा। पृ॒थि॒व्याः। चि॒कि॒त्वांसः॑। अ॒चे॒तस॑म्। न॒य॒न्ति॒। प्र॒ऽव्रा॒जे। चि॒त्। न॒द्यः॑। गा॒धम्। अ॒स्ति॒। पा॒रम्। नः॒। अ॒स्य। वि॒ष्पि॒तस्य॑। प॒र्ष॒न् ॥७॥
स्वामी दयानन्द सरस्वती
फिर कौन विद्वान् श्रेष्ठ होते हैं, इस विषय को अगले मन्त्र में कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुनः के विद्वांसः श्रेष्ठा भवन्तीत्याह ॥
हे मनुष्याः ! य इमे चिकित्वांसोऽनिमिषा पृथिव्या दिवश्च विद्यामचेतसं नयन्ति चित् प्रव्राजे नद्यो गच्छन्ति यदासां गाधमुदकमस्ति तस्मात्पारं नयन्ति तथाऽस्य विष्पितस्य कर्मणः पारं नोऽस्मान् पर्षन् एत एव विदुषः कर्तुमर्हन्ति ॥७॥